गंगाध्यानं
Ganga Snanam (Ganga Dhyanam)
संस्कृत संकल्प, देवनागरी लिपि में। शब्द वही हैं, केवल लिपि बदली है।
गंगा ध्यान पुरस्सरं गंगां प्रविश्य ॥ अथ गंगाध्यानं ॥
श्लो॥ गंगा गंगेतियोब्रूयाद्योजनानांशतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥
अंब त्वद्दर्शना न्मुक्ति र्ज्ञानै स्नानजं फलम् ।
स्वर्गारोहण सोपानि महापुण्यतरंगिणी ॥
विश्वेशं माधवं ढुंढिं दण्डपाणिंच भैरवम् ।
वंदे काशीं गुहं गंगां भवनीं मणिकर्णिकाम् ॥
अतितीक्ष महाकाय कल्पांतदहनोपम ।
भैरवाय नमस्तुभ्यं अनुज्ञां दातु मर्हसि ॥
त्वं राजा सर्वतीर्थानां त्वमेव जगतः पिता ।
याचितौ देहिमे तीर्थं सर्वपापापनुत्तये ॥
यो౽सौ सर्वगतो विष्णु श्चैतन्यरूपी निरंजनः ।
स एव द्रवरूपेण गंगांभो नात्र संशयः ॥
नंदिनी नळिनी सीता मालिनी च महापगा ।
विष्णुपादाब्जसंभूता गंगेत्रिपथगामिनी ॥
भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी ।
द्वादशैतानि नामानि यत्र यत्र जलाशये ॥
स्नानकाले पठेन्नित्यं महापातक नाशनम् ॥
अघमर्षण सूक्तं पवमान सूक्तंच जपेत्.
आपोहिष्टा इति तिसृभिः हिरण्य वर्णा इति चतसृभिः मार्जयेत् . स्नात्वाचम्य.
