भस्म धारण विधि
Bhasma Dharana Vidhi (Applying Sacred Ash)
संस्कृत संकल्प, देवनागरी लिपि में। शब्द वही हैं, केवल लिपि बदली है।
अग्नेयं भस्म सद्योजात मिति मिति पंचब्रह्ममंत्रैः प्रतिगृह्या॥
सद्योजातं प्रपद्यामि सद्योजाताय वै नमोनमः । भवे भवे नाति भवेभवस्वमां । भवोद्भावाय नमः ॥
वामदेवाय नमो ज्येष्ठाय नमश्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणायनमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमस्सर्वभूतदमनायनमो मनोन्मयाय नमः ।
अघोरेभ्यो- थघोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्य स्सर्वशर्वेभ्योनमस्ते अस्तु रुद्ररूपेभ्यः ॥
तत्पुरुषाय विद्म हेमहादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥
ईशानस्सर्वविद्यानामीश्वर स्सर्वभूतानां ब्रह्माधिपतिर् ब्रह्मणोधिपतिर् ब्रह्मा शिवोमे अस्तुसदा शिवोम् ॥
अभिमंत्रणम् ॥ अग्निरितिभस्मेत्यादिभिर्मंत्रैः ॥
अग्नि रितिभस्म। वायुरिति भस्म । जलमिति भस्म । स्थलमितिभस्म । व्यो मेतिभस्म । सर्वं हवा इदं भस्म । मन एतानि चक्षुरादीनि भस्मानि ॥
मान स्तोक इति समुधृत्य जलेन संसृज्य
मानस्तोकेतनये मानआयुषि मानोगोषु मानो अश्वेषुरीरिषः । वीरान्मानो रुद्रभामितो वधीर् हविष्मंतोनमसा विधेमते ॥
त्र्यायुषैः त्र्यंबकैः तिर्यक्तिस्रोरेखाः प्रकुर्वीत ।
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषं||
त्र्यंबकं यजामहे सुगंधिं पुष्टि वर्धनम् उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय मामृतात्॥
ये ते सहस्र मुयतं पाशा मृत्यो मर्त्यायहंतवे । तान् यज्ञस्य मायया सर्वा नव यजामहे ॥ मृत्यवे स्वाहा मृत्यवे स्वाहा" ॥
इति भस्मधारणम् ॥ ततः विधिप्रकारेण संध्यावंदनादिकंकुर्यात् ॥
